Siirry offline-tilaan Player FM avulla!
01-11-13
Manage episode 167764300 series 1319026
01-11
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।
पदच्छेतः
अयनेषु, च, सर्वेषु, यथाभागम्, अवस्थिताः।
भीष्मम्, एव, अभिरक्षन्तु, भवन्तः, सर्वे, एव, हि॥
पदपरिचयः
पदम् | विवरणम् | पदम् | विवरणम् |
अयनेषु | अ. नपुं. स. बहु. | च | अन्वयम् |
सर्वेषु | अ. पुं. सर्व. स. बहु. | यथाभागम् | अन्वयम् |
अवस्थिताः | अ. पुं. प्र. बहु. | भीष्मम् | अ. पुं. द्वि. एक. |
एव | अन्वयम् | अभिरक्षन्तु | अभि + रक्ष् – पर.लोट्.प्रत.बहु. |
भवन्तः | भवत्-त. पुं. प्र. बहु. | सर्वे | अ. पुं. सर्व. प्र. बहु. |
एव | अन्वयम् | हि | अन्वयम् |
पदार्थः
पदम् | अर्थः | पदम् | अर्थः |
सर्वेषु | सकलेषु | अयनेषु | व्यूहानां द्वारेषु |
यथाभागम् | स्वस्वभागे | अवस्थिताः | स्थिताः |
भवन्तः सर्वे | समस्ताः भवन्तः | भीष्मम् एव | भीष्माचार्यम् एव |
अभिरक्षन्तु | संरक्षन्तु |
अन्वयः
सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।
आकाङ्क्षा
अभिरक्षन्तु | |
के अभिरक्षन्तु? | भवन्तः अभिरक्षन्तु। |
भवन्तः कीयन्तः अभिरक्षन्तु? | भवन्तः सर्वे अभिरक्षन्तु। |
कीदृशाः भवन्तः सर्वे अभिरक्षन्तु? | अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। |
कथम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? | यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। |
कुत्र यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? | अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। |
कतिषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? | सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। |
सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे कम् एव अभिरक्षन्तु? | सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु। |
तात्पर्यम्
भवन्तः सर्वेऽपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु। सेनाधिपतीं भीष्मं च रक्षन्तु।
व्याकरणम्
सन्धिः
एवाभिरक्षन्तु | एव + अभिरक्षन्तु | सवर्णदीर्धसन्धिः |
सर्व एव | सर्वे + एव | यान्तवान्तादेशसन्धिः, यलोपः, प्रकृतिभावः |
समासः
यथाभागम् | भागम् अवतिक्रम्य | अव्ययीभावः |
कृदन्तः
अवस्थिताः | अव + स्था + क्त | (कर्तरि) |
अयनेषु | अय् + ल्युट् | (करणे) अयन्ते (गच्छन्ति) एभिः इति अयनानि, तेषु। |
01-12
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१.१२॥
पदच्छेतः
तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः।
सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान्॥
पदपरिचयः
पदम् | विवरणम् | पदम् | विवरणम् |
तस्य | तद्-द. सर्व. पुं. ष. एक. | सञ्जनयन् | सञ्जनयत्-त. पुं. प्र. एक. |
हर्षम् | अ. पुं. द्वि. एक. | कुरुवृद्धः | अ. पुं. प्र. एक. |
पितामहः | अ. पुं. प्र. एक. | सिंहनादम् | णमुलन्तम् अव्ययम् |
विनद्य | ल्यबन्तम् अव्ययम् | उच्चैः | अव्ययम् |
शङ्खम् | अ. पुं. द्वि. एक. | दध्मौ | ध्मा-पर. कर्तरि. लिट्. प्रपु. एक. |
प्रतापवान्॥ | प्रतापवत्-त. पुं. प्र. एक. |
पदार्थः
पदम् | अर्थः | पदम् | अर्थः |
प्रतापवान् | तेजस्वी | कुरुवृद्धः | कुरुषु ज्येष्टः |
पितामहः | भीष्मः | तस्य | दुर्योधनस्य |
हर्षम् | मोदम् | सञ्जनयन् | उत्पादयन् |
सिंहनादं विनद्य | सिहः इव गर्जित्वा | शङखम् | शङखम् |
उच्चैः | गाढम् | दध्मौ | आध्मातवान् |
अन्वयः
प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
आकाङ्क्षा
दध्मौ | |
कः दध्मौ? | पितामहः दध्मौ। |
कीदृशः पितामहः दध्मौ? | कुरुवृद्धः पितामहः दध्मौ। |
पुनः कीदृशः कुरुवृद्धः पितामहः दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः कं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः शङ्खं दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः कथं शङ्खं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः उच्चैः शङ्खं दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः किं कृत्वा उच्चैः शङ्खं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः विनद्य उच्चैः शङ्खं दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः कथं विनद्य उच्चैः शङ्खं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः किं कुर्वन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः कं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। |
प्रतापवान् कुरुवृद्धः पितामहः कस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? | प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। |
तात्पर्यम्
तदा पितामहः भीष्मः सिंहः इव उच्चैः गर्जनम् अकरोत्। ततः शङ्खमपि उच्चैः अधमत् येन दु्र्योधनस्य महान् सन्तोषः जातः।
व्याकरणम्
सन्धिः
हर्षं कुरुवृद्धः | हर्षम् + कुरुवृद्धः | अनुस्वारसन्धिः |
विनद्योच्चैः | विनद्य + उच्चैः | गुणसन्धिः |
सिंहनादं विनद्योच्चैः | सिंहनादम् + विनद्योच्चैः | अनुस्वारसन्धिः |
शङ्खं दध्मौ | शङ्खम् + दध्मौ | अनुस्वारसन्धिः |
समासः
कुरुवृद्धः | कुरुषु वृद्धः | सप्तमीतत्पुरुषः |
कृदन्तः
सञ्जनयन् | सम् + जन् + णिच् + शतृ कर्तरि |
सिंहनादं विनद्य | सिंह + नद् + णमुल् (भावे) उपमानवाचके शब्दे उपपदे धातोः णमुल् (अम्) वि + नद् + ल्यप् (भावे) |
तद्धितान्तः
पितामहः | पितृ + डामहच् (पिता इत्यर्थे)। पितुः पिता |
प्रतापवान् | प्रताप् + मतुप्। प्रतापः अस्य अस्मिन् वा अस्ति। |
01-13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्।।1.13।।
पदच्छेतः
ततः, शङ्खाः, च, भेर्यः, च, पणवानकगोमुखाः।
सहसा, एव, अभ्यहन्यन्त, सः, शब्दः, तुमलः, अभवत्॥
पदपरिचयः
पदम् | विवरणम् | पदम् | विवरणम् |
ततः | अन्वयम् | शङ्खाः | अ. पुं. प्र. बहु. |
च | अन्वयम् | भेर्यः | इ. स्त्री. प्र. बहु. |
पणवानकगोमुखाः | अ. पुं. प्र. बहु. | सहसा | अन्वयम् |
एव | अनवयम् | अभ्यहन्यन्त | अभि + हन्-आत्म. कर्मणि लङ् प्रपु. बहु. |
सः | तद्-द. सर्व. पुं. प्र. एक. | शब्दः | अ. पुं. प्र. एक. |
तुमलः | अ. पुं. प्र. एक. | अभवत् | भू-पर. कर्तरि लङ् प्रपु. एक. |
पदार्थः
पदम् | अर्थः | पदम् | अर्थः |
तदा | तस्मिन् समये | शङ्खाः | शङ्खाः |
भेर्यः | भेर्यः | पणवानकगोमुखाः | पणवाः आनकाः गोमुखाश्च |
सहसा एव | युगपत् एव | अभ्यहन्यन्त | नादिताः अभवन् |
सः | सः | शब्दः | नादः |
तुमुलः | धोरः | अभवत् | सञ्जातः |
अन्वयः
तदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त। सः शब्दः तुमुलः अभवत्।
आकाङ्क्षा
अभ्यहन्यन्त | |
के अभ्यहन्यन्त? | शङ्खाः अभ्यहन्यन्त। |
शङ्खाः पुनश्च काः अभ्यहन्यन्त? | शङ्खाः भेर्यः अभ्यहन्यन्त। |
शङ्खाः भेर्यः पुनश्च के अभ्यहन्यन्त? | शङ्खाः भेर्यः पणवानकगोमुखाः च अभ्यहन्यन्त। |
शङ्खाः भेर्यः पणवानकगोमुखाः च कथं अभ्यहन्यन्त? | शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त। |
कदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त? | तदा शङ्खाः भेर्यः पणवानकगोमुखाः च सहसा एव अभ्यहन्यन्त |
अभवत् | |
कः अभवत्? | सः अभवत्। |
सः कः अभवत्? | सः शब्दः अभवत्। |
सः शब्दः कीदृशः अभवत्? | सः शब्दः तुमुलः अभवत्। |
तात्पर्यम्
तस्मिन् एव काले शङ्खानां धमनम्, भेरीणां ताडनम्, पणवानाम् आनकानां गोमुखानां च वादनमं सम्पन्नम्, येन सर्वत्र महान् शब्दः संजातः।
व्याकरणम्
सन्धिः
शङ्खाश्च | शङ्खाः + च | विसर्गसन्धिः (सकारः) श्चुत्वम् |
भेर्यश्च | भेर्यः + च | विसर्गसन्धिः (सकारः) श्चुत्वम् |
सहसैवाभ्यहन्यन्त | सहसा + एव | वृद्धिसन्धिः |
सहसैव + अभ्यहन्यन्त | सवर्णदीर्धसन्धिः | |
शब्दस्तुमुलोऽभवत् | शब्दः + तुमुलः | विसर्गसन्धिः (सकारः) |
शब्दतुमुलः + अभवत् | विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपम् |
समासः
गोमुखः | गोः मुखम् इव मुखं यस्य सः | बहुव्रीहिः। वाद्यविशेषः। |
पणवानकगोमुखाः। | पणवाश्च आनकाश्च गोमुखाश्च | द्वन्द्वः। वाद्यविशेषाः। |
33 jaksoa

Kaikki jaksot
×Tervetuloa Player FM:n!
Player FM skannaa verkkoa löytääkseen korkealaatuisia podcasteja, joista voit nauttia juuri nyt. Se on paras podcast-sovellus ja toimii Androidilla, iPhonela, ja verkossa. Rekisteröidy sykronoidaksesi tilaukset laitteiden välillä.